पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/31

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिर्णयतन्त्रे


( मन्दोच्चभगणाः )

मन्दोच्चानां क्वभ्रवेदा, नवाकृत्यग्न्यर्काहीभाब्धयो,ऽकाहिचन्द्राः।
वेदाऽस्वप्ना नन्दवाणद्विपाश्च नागाङ्कार्था वेदबाणाश्च सूर्यान् ॥ ५॥

( पातभगणा, भूदिनानि च)

पातानां शशितो रदद्विपहयच्छिद्राकृतित्यश्विनो,
हव्याशाकृतयः, स्वराद्रिनिगमाः, पाथोधिचन्द्राश्विनः ।
दन्ताङ्काः, करखाद्रयश्च ; भगणा धात्रीदिनौघा नवे-
न्द्वभ्रात्यष्टिशराद्रिचन्द्रनवशैलाद्रीषुशीतांशवः ॥६॥

 क्ष्रथ सूर्यादीनां मन्दोच्चानां भगणानाह-मन्दोच्चानामिति । 'ध्यानवान्' (४०१) इति सूर्यमन्दोच्चस्य, 'धीरौ श्रीगुरुपादौ दृढो" (४८,८१२३,२२९ ) इति चन्द्रमन्दोच्चस्य, 'धीजय' (१८९) इति कुजमन्दोच्चस्य, 'विबल' (३३४) इति बुधमन्दोच्चस्य, 'धर्मज' (८५९) इति गुरुमन्दोच्चस्य, 'दधिम' (५९८) इति शुक्रमन्दोच्चस्य, 'वामन' (५४) इति शनिमन्दोच्चस्य भगणाः ॥ ८ ॥

 सूयंस्य पाताभावाद् इन्द्वादीनां पातभगणान् भूदिनानि चाह-पातानामिति । 'रागो हि साधु: खरगीरनूनः ( २३,२२,९७,८३२) इति चन्द्रपातस्य, 'गरिष्ठ' (२२३) इति कुजपातस्य, 'सार्थवान्' ( ४७७) इति बुधपातस्य, 'भास्करः' ( २१४ ) इति गुरुपातस्य, 'रङ्गधीः' ( ९३२) इति शुक्रपातस्य, 'रत्नसू:' (७०२) इति मन्दपातस्य । 'धन्यो नाथोऽयमासीद्युधि सार्थमान्यः' (.१५,७७,९१,७५,१७,०१९) इति भूमिष्ठानां सावनदिनोघाः॥९॥


ग्याल्या :--1. E. कुदिनानि

 2. A. साधुरत्रो गुरुः, ; B.C. साधु-gap.