पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/30

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽध्यायः


(ग्रहभगणाः)

व्योमाम्बराकाशनखाग्निवेदाः सरोजबन्धोर्भगणा युगे स्युः ।
त एव कल्पे तु' सहस्रनिघ्ना युगानि कल्पे हि सहस्रमाहुः ॥ ४ ॥
नवाभ्रदिग्दन्तहुताशनेन्द्रियस्वराद्रिबाणा भगणा निशाकृतः।
भवन्ति कल्पे, नवबाणगोगरुदूरसाहिषट्छिद्रकराश्विनोऽसृजः॥ ५ ॥
शशाङ्कपुत्रस्य दिनेशमूर्च्छनास्वराभ्रशैलाग्निनवाद्रिभूमयः ।
गुहास्यनन्दाकृतिपर्वतोर्वरापितामहास्याङ्गहुताशना गुरोः ॥६॥
 शराद्रिशैलाभ्रयाश्चिदस्रनेत्राभ्रशैला भृगुनन्दनस्य ।
स्म रेषुनन्दाङ्गरसाश्वितर्करसाब्धिचन्द्रा हरिदश्वसूनोः ॥ ७॥


 भक्त्या सह नत्वा स्फुटनिर्णयाख्यं तन्त्रं कर्तास्मि करिष्यामि। उत्तमपुरुषकवचनान्तमिदम् । आख्याकथनेन प्रतिपाद्यमप्युक्तम् । ग्रहस्फुटानां निर्णयसाधनं गणितं प्रतिपाद्यम् । षडध्यायगतैः नवतिसंख्यैः पद्यैरुपलक्षितं प्रमाणकथनं यथाशक्ति शिष्यप्रवृत्त्यर्थम् ॥ ३ ॥

 त्र्प्रथ स्फुटज्ञानस्य मध्यमज्ञानपूर्वकत्वात् मध्यमसाधनभूतान् ग्रहभगणानाह- व्योमाम्बरेति चतुर्भिः।

 'त्र्प्रनूनो नारीगर्भः' (४३,२०,००० ) इति सूर्यस्य युगभगणाः। ते सहस्रगुणिताः कल्पभगणाः, यतः कल्पे सहस्रं युगान्याहुरभियुक्ताः । 'धनानां पात्रं बालिशोऽसौ सोमः' (५७,७५,३३,२१,००९) इति चन्द्रस्य कल्पभगणाः । 'धोमेधाप्रीतिहेतुर्धरित्री' ( २,२९,६८,६२,९५९ ) इति कुजस्य । 'प्रियपुत्रासनस्सुबन्धुस्सेव्यः' (१७,९३,७०,७२,११२) इति बुधस्य। 'स्तब्धः क्रूरसेव्यो वाचालः' (३६,४१,७२,२९६) इति गुरोः । 'मांसार्थिनां सखा रुद्रो नाथः' (७,०२,२२,७०,७७५) इति कवेः । 'मुग्धताचरितं ते वाक्यम्' ( १४,६६,२६,६९५) इति शनेः ॥४-७ ॥


 मूलम् :-1. A. हि for तु