पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/29

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिर्णयतन्त्र


उदेतु चेतोगगने रविः कविर्बुधश्च राजा मम मित्रनन्दनः ।
सुरेन्द्रपूज्यः क्षितिनन्दनस्तथा यथा तमःप्रत्यपि नावतिष्ठते ॥२॥
भक्त्या वृषारण्यगतं रमेशं नत्वा गणेशं च सरस्वतीं च ।
कर्तास्मि तन्त्रं स्फुटनिर्णयाख्यं पद्यैः षडध्यायगतैर्नवत्या ॥३॥


मुञ्जालको मानसकर्ता। गोविन्दो मुहूर्तरत्नादिकर्ता। परमेश्वरो दृग्गणिताख्यस्य करणस्य कर्ता । तस्य तनयो दामोदराख्यः । तस्य शिष्यः श्रीनीलकण्ठः तन्त्रसंग्रहादीनां कर्ता । माधवो वेण्वारोहादीनां' कर्ता । तेषां नमस्कारेण स्वकरिष्यमाणतन्त्रस्य तत्कृतसिद्धान्तादिमूलत्वात् प्रामाण्यमावेदितम् । सृष्टिक्रमोऽप्यनेन सूचितः । आदौ ब्रह्मण उत्पत्तिः । ततः सूर्यादिग्रहाणां सृष्टिः। तत ऋषीणामित्यादि ॥१॥

 एवं ब्रह्मादीन् नमस्कृत्य सूर्यादीन् ग्रहान् प्रार्थयते-उदेत्वित्यादिना । रविः कविः बुधः राजा' मित्रनन्दनः सुरेन्द्रपूज्यः क्षितिनन्दनश्च मम चेतोगगने तथा उदेतु, यथा तमःप्रत्यपि तमोलेशोऽपि, नावतिष्ठते, तथा प्रकाशताम् । कविः शुक्रः । राजा चन्द्रः। मित्रनन्दनः शनिः । सुरेन्द्रपूज्यो जीवः । कक्ष्याक्रमोऽप्यनेनोक्तः । मध्यकक्ष्यायां रविः। तदधःकक्ष्यासु शुक्रबुधचन्द्राः । ऊर्ध्वकक्ष्यासु शनिगुरुकुजाः । कक्ष्याक्रमेण चतुर्था वाराधिपाः । तदुक्तं आर्यभटाचार्यण-

शीध्रक्रमाच्चतुर्था भवन्ति सूर्योदयाद् दिनपाः।
(आर्यभटीयम्, काल० १६)
 

इति ।

 तदानीन्तनो राजाप्यनेन श्लोकेन स्तुतः । रविः रविवर्माख्यः राजा मम चेतोगगने उदेतु । बुधः कविरित्यादीनि तद्विशेषणानि । मित्रनन्दनः सुहृदामाह्लादकरः । क्षितिनन्दनः क्षितिवासिनोनां प्रजानामानन्दकर इत्यर्थः ।

 तमःप्रतीत्यत्र 'सुप्रतिना मात्रार्थे' (पाणिनिसूत्रम् २. १. ९) इत्यव्ययीभावसमासः । अवतिष्ठते इत्यत्र 'समवप्रविभ्यः स्थः' (पाणिनिसूत्रम् १. ३. २२) इत्यात्मनेपदम् ॥२॥

 अथेष्टदेवतानमस्कारपूर्वकं चिकीर्षितग्रन्थस्य नामधेयादीन्याह-भक्त्या वृषारण्यगतमिति । वृषारण्याख्यक्षेत्रगतं रमावल्लभं गणनाथं सरस्वतीं च


मूलम् :-- 1. E.Om. भक्त्या

 2. B. F. तन्त्रस्फुट

व्याख्या :-1. A. वेण्वारोहणादीनां

 2. G. Om, राजा