पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/28

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अच्युतविरचितं

स्फुटनिर्णयतन्त्रम्

तत्कृतया विवृत्याख्यया व्याख्यया समेतम्


अथ प्रथमोऽध्यायः

(मङ्गलाचरणम् )

ब्रह्माणं मिहिरं वसिष्ठपुलिशौ गर्ग मयं लोमशं
श्रीपत्यार्यभटौ वराहमिहिरं लल्लं च मुञ्जालकम् ।
गोविन्दं परमेश्वरं सतनयं श्री-नीलकण्ठं गुरुन्
वन्दे गोलविदश्च माधवमुखान् वाल्मीकिमुख्यान् कवीन् ॥१॥


तत्रादौ वन्दितानेव नत्वा ब्रह्मादिकान् मया।
स्फुटनिर्णयतन्त्रस्य क्रियामार्गो विलिख्यते ॥

 तत्रादौ शिष्टाचारसिद्धम् इष्टदेवतानमस्कारं करोति' कविःब्रह्माणमित्यादिना। मिहिरः सूर्यः । ब्रह्म-सूर्य-वसिष्ठ-पुलिश-लोमशाः पञ्च सिद्धान्त कर्तारः । मयोऽपि सूयं सिद्धान्तस्य प्रष्टुत्वादाचार्यः। गर्गतन्त्रस्यापि पञ्चसिद्धान्ततुल्यकक्ष्यत्वाद् गर्गस्य ब्रह्मादिमध्ये नमस्कारः कृतः। श्रीपतिः सिद्धान्तशेखरादीनां कर्ता। लल्लः शिष्यधीवृद्धिदाख्यस्य तन्त्रस्य कर्ता ।


मूलम् :- 1. B. गुरुं

व्याख्या :-1. E.Om. करोति

 2. E. Hapl. om. after this upto feara following.

 3. A. शेखरादिकर्ता

स्फुटनिर्णयतन्त्रम् -१