सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सध्यास्ये स्कान्दशारीर अथ तृतीयोऽध्यायः। एवं तावन्मानास्थानगतानां नानाविधानां रेखाणां पृथक् पृथग् लक्षणानि फलानि व दर्शितानि । सम्प्रति स्थाननियतानां रेखणां स्थानानां च तद्वतवर्णानां ण लक्षणानि फलानि चोच्यन्ते । तत्र तावल्ललाटस्थानगतवर्णलक्षणमाह – रजो ललाटपर्यंन्तरोससन्धौ तु वर्तते । तफलं मानिता नृणां स्त्रीणां त्वत्यल्पपुष्पभीः ॥ १ ॥ ललाटपर्यन्तमागे रोमसन्घौ यो वर्णविशेषो वर्तते, स रजो नाम । तुशब्दो विशेषार्थः । पूर्वं सङ्कीर्णानां रेखाणां लक्षणमुक्तम् । इदानीं तु नेति विशेषः । तत्फलं तस्य वर्णस्य फलं, पुरुषाणां मानः ख्यातिपूजादिना । वीणां त्वत्यसपुष्पमीः । अत्यल्पं मे पुष्यं भवति, न यथोयोग्यमिति चि न्ताकुठितमूनसतया निरन्तरं भीर्जायत इति । खpgg°Cado Clarkplesco kao %avbassadossrg &o-JS ॥ १॥ =ी सर्वलक्षणमाह -- सवं ललाटमध्यस्थस्फुटविन्दुविराजिता । वर्णभङ्गिस्तत्फलं तु धर्मनित्यप्रवृत्तिता ॥ २ ॥ अयमर्चः- यस्तु पुनर्मुलाटदेशमध्यस्थास्तिर्यक्प्रवृत्तः स्फुटैर्बिन्दुभिः स्वर्णकारैरतिशयेन शोभमानो वर्णभान्निविशेषः , स सत्वमित्याख्यायते । तत्फलं नित्यधर्मप्रवृत्तिः ॥ २ ॥ तमोक्षमाद तमस्तु धूलताइन्छमध्ये कस्तूरिकाकृतिः। तिलकाकार आभाति तत्फलं कृष्णचारिता ॥ ३ ॥ यस्तु पुनस्तमो नाम वर्णमाङ्गविशेषस्तस्येदं लक्षणम् । छताद्वन्द मध्ये झुलतयोद्धेन्द्रं यत् तस्य मध्ये अन्तराले तिलकस्थाने यस्तिलकाकार आमातेि, स तमो नाम वर्णविशेषः । तस्येदं फलं, यत् कृष्णचारिता भवतीति । कृष्णं चरतीति कृष्णचारी तस्य भावस्तचा ष्णचारिता । ष्णं नाग निषिद्धकर्मेच्यते ॥ ३ ॥