सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽभ्यायः । ७१ मयनाबारके या तु वर्णस्थितिरुदीरिता । मोहनाम्ना फलं तस्याः स एष परिकीर्पते ॥ ४ ॥ या पुनर्नयनावारके नयनबहिगलकायां तत्रापि बहिर्भागे वर्णस्थितिः धवलवर्णस्थितिः, सा मोहाख्ययोदीरिता । तस्याः फङ स एव परिकीर्यते बुधैः यो नामोक्को मोहः स एवेत्यर्थः ।। ४ } परिवेशलक्षणमाह परिवेशस्तदन्तर्या वर्णस्थितिरुदीरिता। धवला तत्फलं क्लेशः स च चक्षुषि वर्तते ॥५॥ या पुनस्तदन्तर्वर्णस्थितिस्तस्य नयनावारकस्यान्तर्वर्णस्थितिर्वर्ण व्यक्तिः धवला, धवलवर्णव्यक्तिरिति यावत् । सा परिक्लेशो नामोदीरिता। तस्याः फञ् क्लेयाः । तत्रापि विशेषः कथ्यते स च चक्षुषि वर्तत इति । बभुःखेशः परिक्लेशस्य फलम् । नाम्नि परिशब्दबठाचक्षुःक्लेशस्य बाहु स्यमपि द्योतितं भवतीत्यवगन्तव्यम् । ५ । अन्तश्चक्षुगलकाथ बहियैः परिवर्तते । स क्षयस्तत्फलं मासषट्कायों स्मृतिर्धया ॥ ६ ॥ यस्तु पुनरन्तश्चक्षुर्गोलकायां बहिः परिवर्तते परिवेषाकारेण वर्तते तारकां परितः, स क्षयः । स च मासषट्कादर्वाक् मृतिं यच्छति, ध्रुवा यावन्मासषट्कं पर्यवस्यति तावत् तद्वतः पुरुषस्य वृत्तिर्भवति निश्चितेति स्यतीत्यर्थः ॥ ६ ॥ कफलक्षणमाह - कफस्तु तारकाधस्तात् पिण्डाकारः स कृcिणमा । तत्फलं नयनश्वंसो यत्रकुत्रापि चेपि ॥ ७ ॥ अस्यार्थः--तारका कनीनिका (paut2s) । तस्या अधस्ताद् यः पिण्डाकारः कृष्णिमा, स कफः । तत्फलं नयनध्वंसः चक्षुर्भङ्गस्तस्य फलस् । अधस्ताद्गतस्य पिण्डाकारस्य कृष्णिमाकारस्येदं फळं नाम च । अपितु यत्रकुत्रापि चक्षुर्नाळकाया मण्डलाकारे गतस्येति भावः ॥ ७ ॥ १. ऋ षण्मादर्वा i मु' क, पाठः