पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् ५२ अहन्स्विदं ते त्रयमव्यवस्थितम् यथावबुद्धो न तथा च बुध्यसे ॥५॥ इदं हि रोगायतनं जरावशम् नदीतटीनौकहवञ्चलाचलम् । न वेत्सि देहं जलफेनदुर्बलम् बलस्यतामात्मनि येन मन्यमे ॥६॥ यदान्नपानाशनयानकर्मणा- मसेवनादप्यतिसेवनादपि । शरीरमासन्नविपत्ति दृश्यते बलेऽभिमानस्तव केन हेतुना ॥७॥ हिमातपव्याधिजराक्षुदादिभिः यदाप्यनर्थैरुपनीयते जगत् । जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजेत् किं बलदृत मन्यसे ॥८॥ त्वगस्थिमांसक्षतजात्मकं यदा शरीरमाहारवशेन तिष्ठति । अजस्त्रमार्त्तं सततप्रतिक्रियम् बलान्वितोऽस्मीति कथं विहन्यसे ॥६॥ यथा घटं मृण्मयमाममाश्रितो नरस्तितीर्षित् क्षुभितं महार्णवम् । समुच्छ्रयं तद्वदसारमुद्वहन्- बखं व्यवस्थेत् विषयार्थमुद्यतः ॥१०॥