पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ५३ शरीरमामादपि मृण्मयाद् घटात् इदन्तु निःसारतमं मतं मम । चिरं हि तिष्ठेत् विधिवद्धृतो घ(टः] समुच्छ्रयोऽयं सुधृतोऽपि भिद्यते ॥११॥ यदाम्बुभूवाय्वनलाश्च धातवः सदा [नि)रुद्धा विषमा इवोरगाः । भवन्त्यनर्थाय शरीरमाश्रिताः कथं बलं रोगविधौ व्यवस्यसि ॥१२॥ प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यास्तु भवन्ति धातवः । केचिच्च कञ्चिच्च दशन्ति पन्नगाः सदा च सर्व्वञ्च तुदन्ति धातवः ॥ १३ ॥ इदं हि शय्याशनपानभोजनैः गुणैः शरीरं चिरमप्यवेक्षितम् । न मर्षयत्येकमपि व्यतिक्रमम् यतो 'महाशौविषवत् प्रकुष्यति ॥१४॥ यदा हिमार्त्तो ज्वलनं निषेवते हिमं निदाघाभिहतोऽभिकाङ्क्षति । क्षुधान्वितोऽन्नं सलिलं तृषान्वितो बलं कुतः किञ्च कथञ्च कस्य च ॥१५॥ १ P. M. महाहौ।