पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् ५४ तदेवमाज्ञाय शरीरमातुरम् बलान्वितोऽस्मीति न मन्तुमर्हसि । असारमखन्तमनिश्चितं जगत् जगत्यनित्ये बलमव्यवस्थितम् ॥१६॥ क्व कार्तवीर्यस्य बलाभिमानिनः सहस्रबाहोर्बलमर्जुनस्य तत् । चकर्त्त बाहून् युधि यस्य भार्गवो महान्ति शृङ्गाण्यशनिर्मिरेरिव ॥१७॥ क्व तद्बलं कंसविकर्षिणो हरे- स्तरङ्गराजस्य पुटावभेदिनः । यमेकबाणेन निजघ्निवान् जरा क्रमागता रूपमिवोत्तमं जरा ॥१८॥ दिते(ः) सुतस्यामररोषकारिणः चमूरुचेर्वा नमुचेः क्व तद्बलम् । यमाहवे क्रुद्धमिवान्तकं स्थितम् जघान फेनावयवेन वासवः ॥१८॥ बलं कुरूणां क्व च तत्तदाभवत् युधि ज्वलित्वा तरसौजसा च ये। समित्समिद्धा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः ॥२०॥ १ P. M. पुथेर।