पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः अतो विदित्वा बलवीर्य्यमानिनाम् बलान्वितानामवमर्द्दितं बलम् । जगज्जरामृत्युवशं विचारयन् बलेऽभिमानं न विधातुमर्हसि ॥२१॥ बलं महद्वा यदि येन मन्यसे कुरुष्व युद्धं सह तावदिन्द्रियैः । जयश्च तेऽनास्ति महच्च ते बलं पराजयश्चेद् वितथं च ते बलम् ॥२२॥ तथा हि वीराः पुरुषा न ते मता जयन्ति ये साश्वरथद्विपानरोन् । यथा मता वीरतरा मनीषिणो जयन्ति लोलानि ष(डि]न्द्रियाणि थे ॥२३॥ अहं वपुङ्मानिति यच्च मन्यसे विचक्षणं नैतदिदं च गृह्यताम् । क्व तदपुः सा च वपुभती तनुः पदस्य साम्यस्य च सारणस्य च ॥२४॥ प्रथा मयूरश्चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः । शरीरसंस्कारगुणादृते तथा बिभर्षि रूपं यदि रूपवानसि ॥२५॥ १ P. M. P.L. M. विर्य । २ P. M. परे, P. L. M. पले । ३P.M. तेन।