पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् यदि प्रतीपं श्रृणुयान्न वाससा न शौचकाले यदि संस्पृशेदपः । मृजाविशेषं यदि नाददौत वा वपु र्वपुद्मन् वद कीदृशं भवेत् ॥२६॥ नवं वयश्चात्मगतं निशाम्य यद् गृहोन्मुखं ते विषयाप्तये मनः । नियच्छ तच्छैलनदीरयोपमम् द्रुतं हि गच्छत्यनिवर्त्ति यौवनम् ॥२७॥ ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु संनिवर्त्तते जलं नदौनाञ्च नृणाञ्च यौवनम् ॥२८॥ विवर्णितश्मश्रु बलौविकुञ्चितम् विशौर्णदन्त शिथिलभ्रु निष्प्रभम् । यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ॥२८॥ निषेव्य पानं मदनीयमुत्तमम् निशाविवांसेषु चिराद्दिमाद्यति । नरस्तु मत्तो बलरूपयौवनेः न कश्चिदप्राप्य जरी विमाद्यति ॥३०॥ यथेक्षुरभ्यन्तरसंप्रपिण्डितो -- १ P.M. तलेनदौ ।