पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ५७ भुवि प्रविद्धो दहनाय प्राय्यते । तथा जरायन्त्रनिपिण्डिता तनु- र्निपीतसारा मरणाय तिष्ठति ॥३१॥ यथा हि नृभ्यां करपत्रपौडितम् समुच्छ्रितं दारु भिनत्यनेकधा । तथोच्छितां पातयति प्रजामिमाम् अहर्निशान्यामुपसंहिता जरा ॥३२॥ स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वा श्रुतिचक्षुषां ग्रहः । श्रमस्थ योनि बलवीर्ययो र्वधो जरासमो नास्ति शरीरिणां रिपुः ॥३३॥ इदं विदित्वा [वि) निधत्स्व दैशिकम् जराभिधानं जगतो महद्भयम् । अहं वपुमान् करवान् युवेति वा न मा(न]मारोढुमनार्य्यमर्हसि ॥३४॥ अहं ममेत्येव च रक्तचेतसाम् शरीरसंज्ञो भवज(य): कलौ ग्रहः । तमुत्सृजैवं यदि शाम्यते भवात् भयं ह्यहं चेति ममेति वर्च्छति ॥३५॥ यदा शरीरं न वशेऽस्ति कस्यचित् निरस्यमानं विविधैरुपप्लेवैः । १ P. M. शरीरें न वशोऽस्ति ।