पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् कथं क्षमं वेत्तुमहं ममेति वा शरीरसंज्ञं गृहमापदामिदम् ॥३६॥ सपन्नगे यः कुगृहे सदाऽशुचौ रमेत नित्यं प्रतिसंस्कृतेऽबले । स दुष्टधातावशुचौ चलाचले रमेत काये विपरीतदर्शनः ॥३७॥ यथा प्रजाभ्यः कुनृपो बलाद् बली हरत्यशेषं च न चाभिरक्षति । तथैव कायो व्यसनादिसाधनम् हरत्यशेषञ्च न चानुवर्तते ॥३८॥ यथा प्ररोहन्ति ग्रहाण्ययत्नतः क्षितौ प्रयत्नात्तु भवन्ति शालयः । तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा ॥३८॥ शरीरमार्त्त परिकर्षतश्चलम् न चास्ति किञ्चित् परमार्थतः सुखम् । सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यवस्यति ॥४॥ यथानपेक्ष्याय्यमपीमितं सुखम् प्रबाधते दुःखमुपेतमण्वपि । तथानवेक्ष्यात्मनि दुःखमागतम् न विद्यते किञ्चन कस्यचित् सुखम् ॥४१॥