पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ५४ शरीरमीदृक् बहुदुःखमध्रुवम् फलानुरोधादथवावगच्छसि । द्रवत् फलेभ्यो धृतिरश्मिभिर्मनो- ऽभिगृह्यतां गौरिव शस्यलालसा ॥४२॥ न कामभोगा हि भवन्ति तृप्तये हवी षि दीप्तस्य विभावसोरिव । यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्द्धते ॥४३॥ यथा च कुष्ठव्यसनेन दुःखितः प्रतापयन्नैव शमं निगच्छति । तथेन्द्रियार्थध्वजितेन्द्रियश्चरन् न कामभोगैरूपशान्तिभृच्छति ॥४४॥ यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमम् । तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषया भिकाङ्क्षया ॥४५॥ अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा । अनर्थमूला विषयाश्च केवला ननु प्रहेया विषया यथारयः ॥४६॥ इहैव भूत्वा रिपवो वधात्मका: प्रयान्ति काले पुरुषस्य मित्रताम् ।