पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् परब चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्यचित् शिवाः ॥४७॥ यथोपयुक्तम् रसवर्णगन्धवत् वधाय किम्पाकफलम् न पुष्टये । निषेव्यमाणा विषयाश्चलात्मनो भवन्यनर्थाय तथा न भूतये ॥४८॥ तदेतदाज्ञाय विपापानात्मना विमोक्षधर्मा 'ह्युपसंहितं हितम् । जुषस्व मे सज्जनसम्मतं मतम् प्रचक्ष्व वा निश्चयमुद्गिरन् गिरम् ॥४८॥ इति हितमपि बहपीदभुक्तः श्रुतमहता श्रमणेन तेन नन्दः । न धृतिमुपययौ च न शर्म लेभे द्विरद इवातिमदो. मदान्धचेताः ॥५॥ नन्दस्य भावमवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्ने । सत्त्वाशयानुशयभावपरीक्षकाय । बुद्धाय तत्त्वविदुषे कथयाञ्चकार ॥५१॥ सौन्दरनन्दे महाकाव्ये मदापवादो नाम . नवमः सर्गः ॥