पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः सर्गः दशमः सर्गः श्रुत्वा ततः सद्वतमुत्सिसृक्षुं भार्य्यादिदृक्षुं भवनं विविक्षुम् । नन्दं निरानन्दमपेतधैर्यं अभ्युज्जिहीर्षु र्मुनिराजुहाव ॥१॥ तं प्राप्तमप्राप्तविमोक्षमार्ग पप्रच्छ चित्तस्खलितं सूचित्तः । स ह्रीयते हौविततो जगाद स्वं निश्चयं निश्चयकोविदाय ॥२॥ नन्दं विदित्वा सुगतस्ततस्तं भार्य्याभिधाने तमसि भ्रमन्तम् । पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः ॥ ३ ॥ काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने । अन्योन्यसंश्लिष्टविकीर्णपक्षौ मरःप्रकीर्णविव चक्रवाको ॥४॥ तौ देवदारूतमगन्धवन्तम् नदौसरःप्रस्त्रवणौघवन्तम् । आजग्मतुः कञ्चन धातुमन्तम् देवर्षिमन्तं हिमवन्तमाशु ॥५॥ तस्मिन् गिरौ चारणसिद्धजुष्टे शिवे हविधूमकृतोत्तरीये । अगम्यपारस्य निराश्रयस्य तौ तस्थतुर्द्दीप इवाम्बरस्य ॥६॥ शान्तेन्द्रिये तत्र सुनौ स्थिते तु सविस्मय दिक्षु ददर्श नन्दः । दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणमेव चाट्रेः ॥७॥ बहायते तत्र सिते हि शृङ्गे सङ्क्षिप्ीबर्हः शयितो मयूरः भुजे बलस्यायतपीनबाहोः वैदूर्य्यकेयूर इवावमासे ॥८॥ मनःशिलाधातुशिलाश्रयेण पीतीकृताङ्गो विरराज सिंहः । सन्तप्तचामीकरभक्तिचित्रम् रुप्याङ्गन्द् शौर्णमिवाम्बरस्य ॥८॥ व्याघ्रः कमव्यायतखेलगामी लालचक्रेण कृतापसद्यः । बभौ गिरेः प्रस्त्रवणं पिपासुर्दित्सन् पितृभ्योऽम्बु इवावतीर्णः ॥१०॥ I १ P. M. तापोहताशो T. २ P. M. तं तप्त T.