पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ सौन्दरनन्दं काव्यम् चलत्कदम्बे हिमवन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे । छेत्तुं विलग्नं न शशाक बालं कुलोङ्गतः प्रीतिमिवार्य्यवृत्तः ॥११॥ सुवर्णगौराश्च किरातसंघा मयूरपिच्छोज्ज्वलगात्ररेखाः । शार्द्दूलपातप्रतिमा गुहान्यो निष्पेतुरुङ्गार इवाचल्लस्य ॥१२॥ दरौचरौणामतिसुन्दरीणां मनोहरश्रोणिकुचोदरीणाम् । वृन्दानि रेजुर्दिशि किन्नरीणां पुष्पोत्किराणामिव वल्लरीणाम् ॥१३॥ नगान्नगस्योपरि देवदारूनायासयन्तः कपयो वित्तेरुः । तेभ्यः फलं नापुरतोऽपजग्मुः मोघप्रसादेभ्य इवेश्वरेभ्यः ॥१४॥ तस्मात्तु यूथादपसार्य्यमाणां निष्पीडितालक्रकरक्तवक्ताम् । शाखामृगीमेकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दमिदं बभाषे ॥१५॥ का नन्द रूपेण च चेष्टया च संपश्यतश्चारूतरा मता ते । एषा मृगी वैकविपन्नदृष्टिः स वा जनो य च गता तवेष्टिः ॥१६॥ इत्येवमुक्तः सुगतेन नन्दः कृत्वा स्मितं किञ्चिदिदं जगाद । क्व चोत्तमस्त्री भगवन् वधूस्ते मृगी नगक्लेशकरी क चैषा ॥१७॥ ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किञ्चिदवेक्षमाणः । आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः ॥१८॥ अतावृतावाकृतिमेक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः । चित्रां समस्तामपि केचिदन्ये षणामृतूनां श्रियमुद्वहन्ति ॥१८॥ पुष्यन्ति केचित् सुरभीरुदारा मालाः स्रजश्च ग्रथिता विचित्राः । कर्णानुकूलानवतंसकांश्च प्रत्यर्थिभूतानिव कुण्डलानाम् ॥२०॥ १ P. M. पितो।