पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ५१ नवमः सर्गः अथैवमुक्तोऽपि स तेन भिक्षुणा जगाम नैवोपशम प्रियां प्रति । तथाहि तामेव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञबान्धवः १ ॥१॥ यथा हि वैद्यस्य चिकीर्षतः शिवम् वचो न गृह्णाति मुमूषुर्रातुरः । तथैव मत्तो बलरूपयौवनैः हितं न जग्राह स तस्य तद्दचः ॥२॥ न चाच चिचं यदि रागपाणना मनोऽभिभूयेत तमोवृतात्मनः । नरस्य पामा हि तदा निवर्तते यदा भवत्यन्तगतं तमस्तनु ॥३॥ ततस्तथाक्षिप्तमवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च । गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शान्तये ॥४॥ बलञ्च रूपञ्च नवञ्च यौवनम् तथावगच्छामि यथावगच्छसि । P. L. M. lacuna, P.M. विसंझा।