पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० सौन्दरनन्दं काव्यम् वैरूप्यमभ्युपगतः परपिण्डभोजी हास्यस्तथा गृहसुखाभिमुखः सतृष्णः ॥५॥ यथा स्वन्नं भुक्त्वा परमशयनौयेऽपि शयितो वराही निर्मुकः पुनरशुचि धावेत् परिचितम् । तथा श्रेयः शृण्वन् प्रशमसुखमास्वाद्य गुणवद् वनं शान्तं हित्वा गृहमभिलषेत् कामतृषितः ॥6 ॥ यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः । यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः तथा स्वीसंसर्गो बहुविधमनर्थाय भवति ॥६१॥ तद्विज्ञाय मनःशरीरनियतान् नारौषु दोषानिमान् मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च । दृष्ट्वा दुर्बलमाम पावसदृशम् मृत्यूयसृष्टं जगत् निर्मोक्षाय कुरुष्व बुद्धिमतुलामुत्कण्ठितुं नार्हसि ॥ ६२॥ इति सौन्दरनन्दे महाकाव्ये स्त्रीविधातो नाम अष्टमः सर्गः । १ P..M. मानः।