पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः मलपङ्कधरा दिगम्बरा प्रकृतिस्यैर्नखदन्तरोमभिः । यदि सा तव सुन्दरी भवेत् नियतं तेऽद्य न सुन्दरी भवेत् ॥५१॥ स्रवतोभशुचिं स्पृशेच कः सघृणो जर्जरभाण्डवत् स्त्रियम् । यदि केवलया त्वचावृता न भवेन्मक्षिकपत्रमात्रया ॥५२॥ त्वचवेष्टितमस्थिपञ्जरम् यदि कार्य समवैषि योषिताम् । मदनेन च ऋष्यसे बलादघृणः खल्वधृतिश्च मन्मथ(ः) ॥५३॥ शुभतामशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु । अविचक्षण किं न पश्यसि प्रकृतिञ्च प्रभवञ्च योषिताम् ॥५४॥ तदवेत्य मनःशरीरयोर्वनिता दोषवतीर्विशेषतः । चपलं भवतोत्सुकं मनः प्रतिसङ्ख्यानबलेन वार्य्यताम् ॥५५॥ श्रुतवान् मतिमान् कुलोङ्गतः परमस्थ प्रशमस्य भाजनम् । उपगम्य यथा तथा पुन र्न हि भेत्तुं नियम त्वमर्हसि ॥५६॥ अभिजनमहतो मनस्विनः प्रिययशसो बहुमानमिच्छतः । निधनमपि वरं स्थिरात्मनः च्युतविनयस्य नत्तैव जीवितम् ॥५॥ बड्ध्वा यथा हि कवचम् प्रगृहीतचापो निन्द्यो भवत्यपसृतः समराद्रथस्थः । भैक्षाकमभ्युपगतः परिगृह्य लिङ्गम् निन्द्यस्तथा भवति कामहृतेन्द्रियाश्वः ॥५॥ हास्यो यथा च परमाभरणाम्बरस्रग् भैक्ष्यं चरन् धृतधनुश्चलचित्रमौलिः । १P. M. तवैव। 4