पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्यवज्ञया ॥४०॥ विषयाद् विषयान्तरं गता प्रचरत्येव यथा हतापि गौः । अनवेक्षितपूर्वसौहृदा रमतेऽन्यत्र गता तथाङ्गना ॥४१॥ प्रविशन्यपि हि स्त्रियः चितामनुबध्नन्यपि मुक्तजीविताः । अपि विभ्रति नैव यन्त्रणा न तु भावेन वहन्ति सौहृदम् ॥४२॥ रमयन्ति पतीन् कथञ्चन प्रमदा याः पतिदेवताः क्वचित् । चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वमेव ताः ॥४३॥ श्वपचं किल शक्रजित्मुता बकमौनरिपुं कुमुद्दतौ । मृगराजमथो वृहद्रथा प्रमदानामगतिर्न विद्यते ॥४४॥ कुरु हैहयष्णिवंशजा बहुमायाकवचोऽथ शंबरः । मुनिरुद्धान्तमनाश्च गौतमः समवापुर्वनितोद्भुतं रजः ॥४५॥ अकृतज्ञमनार्य्यमस्थिरम् वनितानामिदमौदृशं मनः । कथमर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ॥४६॥ अथ सूक्ष्ममतिः प्रियाशया लघुता सा हृदयं न पश्यसि । किमु कायमसद्गृहं स्रवत् वनितानाञ्चरितं न पश्यसि ॥४७॥ यदहन्यहनि प्रधावनैर्वसनेश्चाभरणैश्च संस्कृतम् । अशुभं तमसानृतेक्षण शुभतो गच्छसि नावगच्छसि ॥४८॥ अथवा समवैषि तत्तनुम् अशुभं त्वम् न तु संविदस्ति ते । सुरभिं विदधासि हि क्रियां अशुचेस्तत्प्रभवस्य शान्तये ॥४६॥ अनुलेपनमञ्जनं स्रजो मणिमुक्तातपनीयमंशकम् । यदि साधु किमच योषितां सहजं तासु विचीयतां शुचि ॥५०॥ १ P. M. विनौयताम् ।