पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः ४७ विवृता व चासयो धृता व्यसनान्ता हि भवन्ति योषितः ॥३१॥ प्रमदाः समदा मदप्रदाः प्रमदा वीतमदा भयप्रदाः । इति दोषभयावहाश्च ताः कथमर्हन्ति निषेवणं नु ताः ॥ ३२ ॥ स्वजनः स्वजनेन भिद्यते. सुहृदश्चापि सुहृज्जनेन यत् । परदोषविवक्षणाशयास्तदनार्य्याः प्रचरन्ति योषितः ॥३३॥ सुजनाः (कुराजा) कृपणीभवन्ति यत् यदयुक्तम् प्रचरन्ति साहसम् । प्रविशन्ति च यच्चमूमुखं रभसा तब निमित्तमङ्गना ॥३४॥ वचनेन हरन्ति वर्णना निशितेन प्रह[रन्ति चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालहलम् महद् विषम् ॥३५॥ प्रदहन् दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते । कुपितो भुजगोऽपि गृह्यते प्रमदानां तु मनो न गृह्यते ॥३६॥ न वपुर्विमृशन्ति न श्रि(पि)यम् न मतिं नापि कुलं न विक्रमम् । प्रहरन्त्यविशेषतः स्त्रियः सरितो ग्रा(ह]कुलाकुला इव ॥३७॥ न वचो मधुरं न लालनम् स्मरति स्त्रौ न [च] सौहृदम् [कदा) । बलिता वनितेव चञ्चला तदितरा भुवने न विद्यते ॥३८॥ अददत्यु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति बिभ्रमम् । पणतेषु भवन्ति गर्विता प्रमदास्तृप्ततराश्च मानिषु ॥३८॥ पुणवत्सु चरन्ति भर्तृवत् गुणहीनेषु चरन्ति शत्रुवत् । Both P. L. M. and P. M. ! २P. M. वचनेन न हन्ति वर्णना। ३P.M. हलाहलं T. # P. M. 38 T. 4 P. M. afecta taga P. L. M. lacuna T. ६ P. M. सूतवत् ।