पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् अकृतात्मतया रूपावितो घृणया चैव धिया च वर्जितः । अशनं खलु वान्तमात्मना कृपण(ः] वा पुनरत्तुमिच्छति ॥२१॥ इति मन्मथशोककर्षितम् तमनुध्याय मुहुर्निरीक्ष्य च । श्रमणः स हिताभिकाङ्क्षया गुणवद् वाक्यमुवाच विप्रियम् ॥२२॥ अविचारयतः शुभाशुभम् विषयेष्वेव निविष्टचेतसः । उपपन्नमलब्धचक्षुषो न रतिः श्रेयसि चेत् भवेत्तव ॥२३॥ श्रवणे ग्रहणेऽय धारणे परमार्थावगमे मनःशमे । अविषक्रमतेश्चलात्मनो न हि धर्मोऽभिरतिर्विधीयते ॥२४॥ विषयेषु तु दोषदर्शिनः परितुष्टस्थ शुचेरमानिनः । शमकर्मसु युक्तचेतसः कृतबुद्धेर्न रतं न विद्यते ॥२५॥ रमते ह्रषितो धनश्रिया रमते कामसुखेन बालिशः । रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया ॥२६॥ अपि च प्रथितस्य धीमतः कुलजस्वार्च्चितलिङ्गधारिणः । सदृशी न गृहाय चेतना प्रणतिर्वायुवशात् गिरेरिव ॥२७॥ स्पृहयेत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रतां । उपशान्तिपथे शिवे स्थितः स्पृहयेद्दोषवते गृहाय सः ॥२८॥ व्यसनाभिहतो यथा विशेत् परिमुक्तः पुनरेव बन्धनम् । समुपेत्य वनं तथा पुनः ग्रहसंज्ञं मृगयेत बन्धनम् ॥२८॥ पुरुषश्च विहाय यः कलिम् पुनरिच्छेत् कलिमेव सेवितुम् । स विहाय भजेत बालिश: कलिभूतामजितेन्द्रियः स्त्रियम् ॥३०॥ सविषा व संश्रिता स्वताः परिमृष्टा इव सोरगा गुहाः । १P. M. म रितिनविन्ते ।