पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ सौन्दरनन्दं काव्यम् तस्या मुखं पद्मसपत्नभूतम् पाणौ स्थितं पल्लवरागताम्रे । छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्ममिवोपरिष्टात् ॥११॥ सा स्त्रीस्वभावेन विचिन्त्य तत्तत् दृष्टानुरागेऽभिमुखेऽपि पत्यौ । धर्म्माश्रिते तत्त्वमविन्दमाना संकल्प्य तत्तत् विललाप तत्तत् ॥१२॥ एष्याम्यनाश्यानविशेषकायां त्वयीति कृत्वा मयि तां प्रतिज्ञां । कस्मान्नु हेतोर्दयितप्रतिज्ञः सोद्य प्रियो मे वितथप्रतिज्ञः ॥१३॥ आर्य्यस्य साधोः करुणात्मकस्य मन्नित्यभौरोरतिदक्षिणस्य । कुतो विकारोयमभूतपूर्व्व स्वेनापरागेण ममापचारात् ॥१४॥ रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदयं विरक्रम् । तथा हि रागो यदि तस्य हि स्यात् मच्चित्तरक्षौ न स नागतः स्यात्॥१५॥ रूपेण भावेन न च यत् विशिष्टा प्रियेण दृष्टा नियतं ततोऽन्या । तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतीं मामगमत् विहाय ॥१६॥ भक्तिं स बुद्धं प्रति वामवोचत् तस्य प्रयातुं मयि सोऽपदेशः । मुनौ प्रसादोयदि तस्य हि स्यात् मृत्योरियोग्रादनु तत् बिभीयात्॥१७॥ लेखार्थमादर्शमनन्यचित्तो विभूषयन्या मम धारयित्वा । बिभर्त्ति सोऽन्यस्य जनस्य तश्चेत् नमोस्तु तस्मै चलसौह्रदाय ॥१८॥ नेच्छन्ति याः शोकमवाप्तुमेवं श्रद्धातुमर्हन्ति न ता नराणाम् । क्वं चानुवृत्तिर्मयि सास्य पूर्व्वं त्यागः क्व चायं जनवत् क्षणेन ॥१८॥ इत्येवमादि प्रियविप्रयुक्ता प्रियेऽन्यदाशङ्का च सा जगाद । सम्भ्रान्तमारुह्य च तत् विमानं सा स्वौ सबाष्पा गिरमित्युवाच ॥२०॥ १ P. M. न समागतः स्यात् । RP. M. ad P. L. M. laouna T. ३ P. L. M. एतम् ।