पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

घटा सगः षष्ठः सर्गः ततो हते भर्त्तरि गौरवेण प्रीतौ हताथामरतौ कृतायां । तत्रैव हमर्योपरि वर्त्तमाना न सुन्दरी सैव तदा बभासे ॥१॥ सा भर्त्तुरभ्यागमनप्रतीक्षा गवाक्षमाक्रम्य पयोधराभ्याम् । द्वारोन्मुखी हर्म्यतलाललम्बे मुखेन तिर्यङ्गतकुण्डलेन ॥२॥ विलम्बहारा चलयोनका सा तस्माद् विमानाद्विनता चकाशे । तपःक्षयादप्सरसां वरेव च्युतं विमानात् प्रियमौक्षमाणा ॥३॥ सा खेदसंखिन्नललाटकेन निश्वासनिष्पीतविशेषकेण । चिन्ताचलाक्षेण मुखेन तस्थौ भर्त्तारमन्यत्र विशङ्कमाना ॥४॥ ततश्चिरस्थानपरिश्रमेण स्थितैव पर्य्यङ्कतले पपात । तिर्य्यक्च शिश्ये प्रविकीर्णहारा सपादुकैवार्द्धविलम्बपादा ॥५॥ अथाच काचित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुमनौसमाना । प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्तौ ॥६॥ तस्याश्च सोपानतलप्रणादं श्रुत्वैव तूर्णं पुनरुत्पपात । प्रीत्या प्रसक्तेव च संजहर्ष प्रियोपयानं परिशङ्कमाना ॥७॥ सा त्रासयन्तौ वलभीपुटस्थान् पारावतान् नूपुरनिःस्वनेन । सोपानकुक्षिं प्रससार हर्षात् भ्रष्टं दुकूलान्तमचिन्तयन्ती ॥८॥ तामङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे । 'विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ॥६॥ सा दुःखिता भर्तुरदर्शनेन कामेन कोपेन च दह्यमाना । कृत्वा करे वक्रमथोपविष्टा चिन्तानदीं शोकजलां ततार ॥१०॥ १ P. M. निर्यन्नत। 3 २P. M. "च्युता।