पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् २४ पत्युस्ततो दर्पणसक्रपाणे: मुहुर्हुमुर्वक्रमवेक्षमाणा । तमालपत्रार्द्रतले कपोले समाधयामास विशेषकं तत् ॥२०॥ तस्या मुखं तत् सतमालपत्रं ताम्राधरोष्ठं चिकुरायताक्षम् । रक्ताधिकाग्रं पतितद्विरेफं संशैवलं पद्ममिवावभासे ॥२१॥ नन्दस्ततो दर्पणमादरेण बिभ्रत् तदा मण्डनसाक्षिभूतम् । विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श ॥२२॥ तत्कुण्डलादस्तविशेषकान्तं कारण्डवक्लिष्टमिवारविन्दम् । नन्दः प्रियाया मुखमौक्षमाणो भूयः प्रियानन्दकरो बभूव ॥२३॥ विमानकल्पे स विमानगर्भे ततस्तथा चैव ननन्द नन्दः । तथागतश्चागतभेक्षकालो भैक्षाय तस्य प्रविवेश वेशा ॥२४॥ अवाङ्मुखो निष्प्रणयश्च तस्थौ भ्रातुर्गृहेऽन्यस्य गृहे यथैव । तस्मादयो प्रेष्यजनप्रमादात् भिक्षामलब्ध्वैव पुनर्जगाम ॥२५॥ काचित् पिपेषान्त्रविलेपनं हि वासोङ्गना काचिदवासयञ्च । अथोजयत् स्नानविधिं तथान्या जगन्धुरन्याः सुरभीः स्रजश्च ॥२६॥ तस्मिन् गृहे भर्तुरतश्चरन्त्यः क्रौडानुरूपं लडितं नियोगम् । काश्चिन बुद्धं ददृशुर्युवत्यः बुद्धस्य वैषा नियतं मनीषा ॥२७॥ काचित् स्थिता तत्र तु हमर्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः । विनिष्पतन्तं सुगतं ददर्श पयोदगर्भादिव दीप्तमर्कम् ॥२८॥ सा गौरवं तच विचार्य भर्तुः स्वया च भक्त्यारर्हतयार्हतश्च । नन्दस्य तस्थौ पुरतो विवक्षुः तदाज्ञया चेति तदात्तत्तक्षे ॥२८॥ अनुग्रहायास्य जमस्य शङ्के गुरुर्गृहं नो भगवान् प्रविष्टः । भिक्षामलब्ध्वा गिरमासनं वा शून्यादरण्यादिव याति भूयः ॥३०॥