चतुर्थः सः अन्योन्यसंरागविवर्द्धनेन तद्दन्द्वमन्योन्यमरौरमञ्च । क्लमान्तरे तर्षबलेन तेन सलीलमन्योन्यममौमदच्च ॥११॥ विभूषयामास ततः प्रिप)यां स सिषेविषुस्तां न मृजावहार्थम् । स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा ॥१२॥ दत्वाथ सर दर्पणमस्य हस्ते ममाग्रतो धारय तावदेनम् । विशेषकं यावदहं करोमौत्युवाच कान्तं स च तं बभार ॥१३॥ भर्त्तुस्तितः श्मश्रु निरूप्यमाणा विशेषकं भासि2 चकार तादृक् । निश्वासवातेन च दर्पणस्य चिकित्सयित्वा निजघान नन्दः ॥१४॥ सा तेन चेष्टाललितेन भर्तुः शायेन चान्तर्मनसा3 जहास । भवेच्च रुष्टा किल नाम तस्मै ललाटजिह्यां भ्रुकुटिं चकार ॥१५॥ चिक्षेप कर्णोत्पलमस्य चांसे करेण सव्येन मदालसेन । पचाङ्गुलिं चार्द्धनिमीलिताक्षे वक्तोऽस्य तामेव विनिर्दुधाव ॥१६॥ ततश्चस्वन्नूपुरयन्त्रिताभ्याम् नखप्रभोद्भासितराङ्गुलिभ्याम् । पद्भ्यां प्रियाया नलिनोपमाभ्याम् मूर्/ भयान्नाम ननाम नन्दः ॥१७॥ स मुक्तपुष्पोन्मिषितेन मूनों ततः प्रियायाः प्रियकृत् बभासे । सुवर्णवेद्यां अनिलावभग्नः पुष्पातिभारादिव नागवृक्षः ॥१८॥ सा तं स्तनोद्वर्त्तितहारयष्टिरुत्थापयामास निपीड्य दोर्भ्याम् । कथं कृतोसौति जहास चोच्चैः मुखेन साचौकृतकुण्डलेन ॥१८॥ १ P. M. तर्थबलेह तेन | २ P. M. भासापिधि, not in P. L. M. T. ३ P. M. साध्येन चातुर्मनसा।
पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७०
दिखावट