पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनञ्च पुनः प्रयाणम् । चचाल चित्राभरणाम्बरस्रम् कल्पद्रुमो धूत इवानिलेन ॥३१॥ कृत्वाञ्जलिं मूर्द्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे । कत्तुं गमिष्यामि गुरौ प्रणामम् मामभ्यनुज्ञातुमिहार्हसीति ॥३२॥ सा वेपमाना परिसस्वजे तं शाखं लता वातसमीरितेव । ददर्श चाश्रुप्लुतलोलनेत्रा दीर्घञ्च निश्वस्य वचोऽभ्युवाच ॥३३॥ नाहं थियामोर्गुरुदर्शनार्थम् अर्हामि कर्त्तुं तव धर्म्मपीडाम् । गच्छार्यपुत्रैहि च शीघ्रमेव विशेषको यावदयं न शुष्कः ॥३४॥ स चेत् भवेस्त्वम् खलु दीर्घसूत्री दण्डं महान्तम् त्वयि पातयेयम् । मुहर्मुहस्त्वां शयितम् कुचाभ्याम् विबोधयेयच्च न चालयेयम् ॥३५॥ अथाप्यनाभ्यानविशेषकायां अप्येष्यसि त्वं त्वरितम् ततः त्वाम् । निपीडयिष्यामि भुजद्वयेन विभूषणेनार्द्रविलेपनेन ॥३६॥ इत्येवमुक्तश्च निपौडितश्च तया स वेणुस्वनया जगाम । एवं करिष्यामि विमुञ्च चण्डि यावद्गुरुर्दूरगतो न मे सः ॥३७॥ ततस्तनोद्वर्तितचन्दनाभ्याम् भुक्तो भुजाभ्याम् न तु मानसेन । विहाय वेषम् मदनानुरूपम् तत्कालयोग्यम् स वपुर्बभार ॥२८॥ सा तं प्रयान्तम् रमणं प्रदध्यौ प्रध्यानशून्य स्थितनिश्चलाक्षी । स्थितोञ्चकर्णा व्यपविद्धशव्या भ्रान्तं मृगं भ्रान्तमुखी मृगीव ॥३८॥ दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्वरे च । वित्तदृष्टिश्च शनैर्ययौ ताम् करीव पश्यन् स स्तडत्करेणुम् ॥४०॥ १P. L. M. धम्मयानां ।