19 तृतीयः सर्गः अथ पार्थिवः समुपलभ्य सुतमुगतम् तथागतम् । तूर्णमबहतुरगानुगतः सूतदर्शनोत्सुकतयाभिनिर्ययौ ॥२०॥ सुगतस्तथागतमपेक्ष्य नरपतिमधीरमानसतया । शेषमपि जनमश्रुमुखम् विनिनीषया गगनमुत्पपात ह ॥२१॥ स विचक्रमे दिवि भुवीव पुनरुपविवेश तस्थिवान् । निश्चलमतिः शिशयिषुः पुनर्बहुधाभवत् पुनरभूत् तथैकथा ॥२२॥ सलिले क्षिताविव चचार जलमिव विवेश मेदिनीम् । मेघ इव दिवि व(व) र्ष पुनः पुनरुज्ज्वलन्नव इवोदितो रविः ॥२३॥ युगपज्ज्वलन् ज्वलनवञ्च अलमवसृजंश्च मेघवत् । तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ॥२४॥ तमुदीक्ष्य हेममणिजालवलयिनमिवोत्थितं ध्वजम् । प्रीतिमगमदतुलां नृपतिर्जनता नताश्च बहुमानमभ्ययुः ॥२५॥ अथ भाजनौकृतमवेक्ष्य मनुजपतिसृद्धिसम्पदा । पौरजनमपि च तत्प्रसवेन 'निजगाद धर्म्मविनयं विनायकः ॥२६॥ नृपतिस्ततः प्रथममाप फलममृतधर्म्मसिद्धयोः । धर्म्ममतुलमधिगम्य मुनेः मुनये ननाम स यतो गुराविव ॥२७॥ बहवः प्रसन्नमनसोऽथ जननमरणार्त्तिभीरवः । शाक्यतनयवृषभाः कृतिनो वृषभा इवानलभयात् प्रवव्रजुः ॥२८॥ विजङस्तु येपि न गृहाणि तनयपितृमात्रपेक्षया । तेऽपि नियमविधिमामरणात् जग्टञ्जश्च युक्तमनसश्च दधिरे ॥२८॥ १ P. M. सुगतः।
पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६६
दिखावट