पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

20 सौन्दरनन्दं काव्यम् न जिहिंस सूक्ष्ममपि जन्तुमपि परवधीयजीवनः । किं बत विपुलगुणः कुलजः सदयः सदा किमु मुनेरुपासया ॥३०॥ अकृशोद्यमः कृषधनोऽपि परपरिभवासहोऽपि सन् । नान्यधनमपजहार तथा भुजगादिवान्यविभवात् विविव्यथे ॥३१॥ विभवान्वितोऽपि तरुणोऽपि विषयचपलेन्द्रियोऽपि सन् । नैव च परयुवतौरगमत् परमहिला' दहनतोष्यमन्यत ॥३२॥ अनृतं जगाद न च कश्चित् ऋतमपि जजल्प नाप्रियम् । लक्षणमपि न जगावहितम् हितमप्युवाच न च पैशनाय यत् ॥३३॥ मनमा लुलोभ न च जात परवसुषु बद्धमानसः । कामसुखमसुखतो विमृशन् विजहार तप्त इव तत्र सज्जनः ॥३४॥ न परस्य कश्चित् अपघातमपि च सधृणो व्यचिन्तयत् । मातृपितृसुतसुह्रत्सदृशं स ददर्श तत्र हि परस्परं जनः ॥३५॥ नियतम् भविष्यति परत्र भवदपि च भूतमप्यथो । कर्मफलमपि च लोकगतिर्नियतेति दर्शनमवाप साधु च ॥३६॥ इति कर्मणा दशविधेन परमकुशलेन भूरिणा। भ्रंशिनि मिथिलगुणेऽपि युगे विजहार तत्र मुनिसंश्रयाज्जनः ॥३७॥ न च तत्र कश्चिदुपपत्तिसुखमभिलस्ताष तैर्गुणैः । सर्वमशिवमवगम्य भवम् भवसंक्षयाय ववृते न जन्मने ॥३८॥ & P.M. P. L. M. afrar T, २P.L.M.एद्धमानसः ।