पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

18 सौन्दरनन्दं काव्यम् अवबुध्य चैव परमार्थमजरमनुकम्पया विभुः । नित्यममृतमुपदर्शयितम् स वरणसापरिकरामयात् पुरीम् ॥१०॥ अथ धर्म्मचक्रमृतनाभि धृतिमतिसमाधिनेमिमत् । तत्र विनयनियमारमृषिर्जगतो हिताय परिषद्यवर्त्तयत् ॥११॥ इति दुःखमेतदियमस्य समुदयलता प्रवर्तिका । शान्तिरियमयमुपाय इति प्रविभागशः परमिदं चतुष्टयम् ॥१२॥ अभिधाय च त्रिपरिवर्त्तमतुलमनिवर्त्त्यमुत्तमम् । द्वादभनियतविकल्पमपि विनिनाय कौण्डिनसगोत्रमादितः ॥१३॥ स हि दोषसागरमगाधमुपधिजलमाधिजन्तुकम् । क्रोधमदभयतरङ्गचपलं प्रततार लोकमपि चाप्यतारयत् ॥१४॥ स विनौय काशिषु गयेषु बहुजनमथो गिरिव्रजे । पित्र्यमपि परमकारुणिको नगरं यथावनुजिघृक्षया तदा ॥१५॥ विषयात्मकस्य हि जनस्य बहुविविधमार्गसेविनः । सूर्य्यसदृशवपुरभ्युदितो विजहार सूर्य्य देव गौतमस्तमः ॥१६॥ अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् । व(ा)स्तुमतिशचिशिवोपवनम् स ददर्श निष्पृहतया यथा वनम् ॥१०॥ अपरिग्रहः स हि बभूव नियतिमतिरात्मनैश्वरः । नेकविधभयकरेषु किमु स्वजनः स्वदेश एव मित्रवस्तुषु ॥१८॥ प्रतिपूजया न स जहर्ष न च शुचमवज्ञयागमत् । निश्चितमतिरसिचन्दनयोः न जगाम सुखदुःखयोश्च विक्रियाम् ॥१८॥ १P. M. अनित्यम् । P. M. TP, L. M. lacuna. T.