पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः १३ दर्शनाच्चैव धर्मस्य काले स्वर्गमवो (व)पत् ॥३७॥ व्यक्तमप्यर्थकृच्छ्रेषु नाधर्म्मिष्टमतिष्ठिपत्' । प्रिय इत्येव चाशक्तं न संरागात् अवौवृधत् ॥३८॥ तेजसा च त्विषा चैव रिपून् दृप्तान् व्यवौमसत् । यशोदीपेन दीप्तेन पृथिवौञ्च व्यबौमसत् ॥३६॥ आनृशंस्यान्न यशसे तेनादायि सदार्थिने । द्रव्यं महदपि त्यक्त्वा न चैवाकीर्ति किञ्चन ॥४०॥ तेनारिरपि दुःखार्तॊ नात्याजि शरणागतः । जित्वा दृप्तानपि रिपून् न तेनाकारि विस्मयः ॥४१॥ न तेनाभेदि मऱय्यांदा कामाद् द्वेषाद् भयादपि । तेन सत्स्वपि भोगेषु नासेवौन्द्रिवृत्तिता ॥४२॥ न तेनादर्शि विषमं कार्य्यं क्वचन किञ्चन । विप्रियप्रिययोः कृत्ये न तेनागामि निक्रिया ॥४३॥ तेनापायि यथाकल्पं सोमश्च यश एवच । वेदश्चाम्नायि सततं वेदोक्तो धर्म एवच ॥४४॥ एवमादिभिरत्यक्तो बभूव सुलभैः गणैः । अशक्यशक्यमामन्तः शाक्यराजः स शक्रवत् ॥४५॥ अथ तस्मिन् तथा काले धर्म्मकामा दिवौकसः । विचेरुर्दिशि लोकस्य धर्म्मचर्च्चा दिदृक्षवः ॥४६॥ १ P. M. ना वम्मिट मतिथ्वपत् । २ P. M. अवौइसत् । ३P. M. मतेनादाधि विधम काम्छ ।