पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ सौन्दरनन्दं काव्यम् स्पष्टया दण्डनीत्या च रात्रिसचानवौवपत् ॥२८॥ कुलं राजर्षिवृत्तेन यशोगन्धमवीवपत् । दीप्त्या तम इवादित्यः तेजसारीनवौवपत् ॥२८॥ अपप्रथत् पितॄश्चैव सत्पुत्रसदृशैः गुणैः । सलिलेनेव चाम्भोदो1 वृत्तेनाजिह्नदत्2 प्रजाः ॥३०॥ दानैरजस्रविपुलैः सोमं विप्रान् असूषवत् । राजधर्म्मस्थितत्वाच्च कालं सस्वमसूषवत् ॥३१॥ अधर्म्मिष्ठामचकथन्नकथामकथंकथः । चक्रवर्त्तीव च परान् धर्म्मायाभ्युदसौवहत् ॥३२॥ राष्ट्रमन्यत्र च बलैर्न स किञ्चिददौदपत् । भृत्यैरेव च सोद्योगं द्विषदर्पमदीदपत् ॥३३॥ स्वैरेवादौदपत् चापि भूयो भूयो गुणोः कुलम् । प्रजा नादौदपच्चैव सर्व्वधर्म्मव्यवस्थया ॥३४॥ अश्रान्तः समये यज्वा यज्ञभूमिममौमपत् । पालनाञ्च द्विजान् ब्रह्म निरुद्विमानमोमपत् ॥३५॥ गुरुभिर्विधिवत् काले सौम्यः सोमममीमपत् । तपसा तेजसा चैव द्विषत्सैन्यममोमपत् ॥२६॥ प्रजाः परमधर्म्मज्ञः सूक्ष्मं धर्म्ममवीवपत् । १ P. M. चास्तौ द्दो। २ P. M. अजितदत् । ३ P. M. परां घर्म्मायाभ्यदसौवतः । ४ P.L. M. सोम्य- ।