सामग्री पर जाएँ

पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

14 सौन्दरनन्दं काव्यम् धर्म्मात्मानः चरन्तस्ते धर्म्मजिज्ञासया जगत् । दृृदृृशुस्तं विशेषेण धर्मात्मानं नराधिपम् ॥४७॥ देवेभ्यस्तुषितेभ्योऽथ बोधिसत्त्वः क्षितिं व्रजन् । उपपत्तिं प्रणिदधे कुले तस्य महीपते(ः) ॥४८॥ तस्य देवी नृदेवस्य माया नाम तदाभवत् । वीत क्रोधतमा माया मायेव दिवि देवता ॥४६॥ स्वप्नेऽथ समये गर्भमाविशन्तं ददर्श सा । षड्दन्तं वारणं श्वेतम् ऐरावतमिवौजसा ॥५०॥ तं विनिर्दिदिशः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः । तस्य जन्म कुमारस्य लक्ष्मीधर्म्मयशोभृृतः ॥५१॥ तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिणः । साचला प्रचचालोर्व्यौ तरङ्गाभिहतेव नौः ॥५२॥ सूर्य्यरश्मिभिरक्लिष्टं पुष्यवर्ष[ं] पपात खात् । दिग्वारणकराधूतात् वनाच्चैचरथादिव ॥५३॥ दिवि दुन्दुभयो नेदुः दीव्यताम् मरूतामिव । दिदीपेत्यधिकं सूर्यः शिवश्च पवनो ववौ ॥५४॥ तुतुषुस्तुषिताश्चेव शुद्धावासाश्च देवताः । सधर्म्मबहुमानेन सत्त्वानां चानुकम्यया ॥५५॥ समाययौ यश:केतुं श्रेयस्केतुकरः परः । P.M. *** T.