पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः १२५ मनसि शमदमात्मने विविक्ते मतिरिवकामसुखैः परीक्षकस्य ॥ ६ ॥ इत्यर्हत: घरमकारुणिकस्य शास्तु: मुड़ी वचश्च चरणौ च समं गृहीत्वा । स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्य्य: पार्श्वान्मुनेः प्रतिययौ विमदः करीव १६ १।। भिक्षार्थं समये विवेश च पुरीं दृष्टौर्जनस्थाक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निस्पृहः । निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् [जनान्] परिभवनात्मानमुत्कर्षयन् ॥६२॥ सौन्दरनन्दे महाकाव्ये आज्ञाव्याकरणं नामाष्टादशमः सर्गः ॥ .१. P. M. उत्कर्षति ।