पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ सौन्दरनन्दं काव्यम् न दृष्टसत्योपि तथाच वुध्यते पृथग्जनः किं बन बुद्धिमानपि ॥५१॥ रजस्तमोभ्यां परिभुक्तचेतसस्तवैव वेयं सदृशी कृतज्ञता । रजःप्रकर्षेण जगत्यवस्थिते कृतजभावो हि कृतज्ञ दुर्ल्लभः ॥५२॥ सधर्म्म धर्म्मान्वयतो यतश्च ते मयि प्रसादोऽधिगमेन कौशलम् । अतोऽस्ति भूयस्त्वयि मे विवक्षितं नतो हि भक्तेष्वभियोगमर्हसि॥५३। अवाप्तकार्य्योसि परां गतिं गतो न तेऽस्ति किञ्चित्करणीय. मावपि अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परानपि ॥५४॥ इहार्थमेवारभते नरोऽधमो विमध्यमस्तृभयलौकिकौं क्रियाम् । क्रियाममुत्रैव फलाय मध्यमा विशिष्टधर्मा पुनरप्रवृत्तये १५५. । इहोत्तमेन्योपि मतः सुभूमो य उत्तमं धर्ममवाप्य नैष्टिकम् । अचिन्तयित्वा सुगतं परिश्रमं शमं परेभ्योऽप्युपदेष्टुमिच्छति ॥५६॥ विहाय तस्मादिह कार्य्यमात्मनः कुरु स्थिरात्मन् परकार्य्यमप्यथो । भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्य्यतामयम् ॥५॥ ब्रवीतु तावत्पुरि विस्मितो जनः त्वयि स्थिते कुर्व्वति धर्मदेशनाः । अहोबताश्चर्यमिदं विमुक्तये करोति रागी यदयं कथामिति ॥५॥ ध्रुवं हि संश्रुत्य तव स्थिरं [म)नो निवृत्तनानाविषयैर्मनोरथः वधुर्गृहे सापि तवानुकुर्व्वती करिष्यते स्वीषु विरागिणोः कथाः ॥५६॥ त्वयि परमधृतौ निविष्टतत्वे भवनगता न हि.रंस्यते ध्रुवं सा ।