पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अछादशः सर्गः १२३ मात्रा त्वया श्रेयसि देशिकेन पित्रा फलस्येन तथैव मात्रा । हतोऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः ॥४१॥ शान्तस्य तुष्टस्य सुखो विवेको विज्ञाततत्त्वस्य परीक्षकस्य । प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वमसक्तबुद्धेः ॥ ४२ ॥ अथो हि तत्वं परिगम्य सम्वग्निर्धूय दोषामधिगम्य शान्तिम् । स्वं नाश्रमं सम्प्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ॥ ४ ३ ॥ इदं हि भुक्त्वा शुचि शामिकं सुखं न से मनः कांक्षति कामजं सुखम् । महार्हमप्यन्नमदैवताहृतं दिवौकसो भुक्तवतः सुधामिव ॥४४॥ अहोऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् । स्वाधीनमध्यात्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थमृच्छति॥४५॥ यथा हि रत्नाकरमेत्य दुर्मतिर्विहाय रत्नान्यसतो मणीन् हरेत् । अपास्य सम्बोधिसुखं यथोत्तमं श्रमं व्रजेत् काममुखोपलब्धये ॥४६॥ अहो हि सत्त्वेष्वतिमैत्रचेतसस्तथागतस्यानुजिदृक्षुता परा । अपास्य ययानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ॥४७॥ मया नु शक्तं प्रतिकर्त्तुमद्य किं गुरौ हितैषिण्यनुकम्पके त्वयि । समुद्धृतो येन भवार्णवादहं महार्णवाञ्चूर्णितनौरिवोर्मिभिः ॥४८॥ ततो मिनिस्तभ्य निशम्य हेतुमत् प्रहीणसर्व्वास्रवसूचकं क्यः । इदं बभाषे वदतामनुत्तमो यदर्हति श्रीधन एवं भाषितम् ॥४८॥ इदं कृतार्थः परमार्थवित् कृतौ त्वमेव धौमन्नभिधातुमर्हसि । अतीत्य कान्तारमवाप्तसाधनः सुदेशिकस्यैव कृतं महावणिक् ॥५०॥ अवैति बुद्धं नरदम्य सारथिं कृतौ यथार्हन्नुपशान्तमानसम् । १ P. M. दत्त ।