पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ सौन्दर नन्दं काव्यम् अभ्युच्छ्रितो द्रव्यमदेन पूर्व्वमद्यासि तृष्णोपरमात् समृद्धः । यावत् सतर्षः पुरुषो हि लोके तावत्समृद्धोऽपि सदा दरिद्रः ॥ ३० ॥ अद्योपदेष्टुं तव युक्तरूपं शुद्धोदनो मे नृपतिः पितेति । भ्रष्टस्य धर्म्मात् पितृभिर्निपातादमाघनीयो हि कुलोपदेशः ॥३१॥ दिष्टयासि शान्तिं परमाभुपेतो निस्तीर्णकान्तार इवाप्रसारः । सर्न्नो हि संसारगतो भयार्त्तो यथेव कान्तारगतस्तथेव ॥३२॥ आरण्यकं भैक्षचरं विनीतं द्रक्ष्यामि नन्द निभृतं कंदति । आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्टया मम दर्शनीयः॥३३॥ भवत्यरूपोपि हि दर्शनीयस्खलंकृतः श्रेष्ठतमैर्गुणैः स्वैः । दोषैः परीतो मलिनौकरैस्तु सुदर्शनीयोऽपि विरूप एव ॥३४॥ अद्य प्रकृष्टा तब बुद्धिमत्ता कृत्स्नं यया ते कृतमात्मकार्य्यम् । श्रुतोन्नतम्यापि हि नास्ति बुद्धिर्नोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ ३५॥ उन्मीलितस्यापि जनस्य मध्ये निमीलितम्यापि तथैव चक्षुः । प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षु न तस्यास्ति सचक्षुषोपि ॥ ३६॥ दुःखप्रतीकारनिमित्तमार्त्तः कृव्यादिभिः खेदमुपैति लोकः । अजस्त्रमागच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्वयान्तः ॥३७॥ दुःखं म मे स्यात् सुखमेव मे स्यादिति प्रवृत्तः सततं हि लोकः । न वेत्ति तच्चैव तथा यथा स्यात् 'प्राप्तं त्वयाद्यासुलभं यथावत् ॥ ३८ इत्येवमादि स्थिरबुद्धिचित्तस्तथागतेनाभिहितो हिताय । स्तवेषु निन्दासु च निर्व्यंपेक्षः कृताञ्जसिर्वाक्यमुवाच मन्दः ॥३८॥ अहो विशेषेण विभेषदर्शिस्त्वयानुकम्पा मयि दर्शितेयम् । यत्कामपङ्के भगवन्निमग्नस्व[]तोऽस्मि संसारभवादकामः ॥४०॥