पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः इत्येवमुक्ता गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः । प्रवेरितो लोहितचन्द्रनाको हैमो महास्तम्भ' इवाबभासे ॥२०॥ ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणञ्च तस्य । धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं मुनिराबभाषे ॥२१॥ उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितोऽसि मूर्ङ्गा । अभ्यर्ञ्चन मे न तथा प्रणामो धर्मे यथैशा प्रतिपत्तिरेव ॥२२॥ अद्यासि सुप्रव्रजितो जितात्मन्नैश्चर्य्यमप्यात्मनि येन लब्धम् । जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य ॥२३॥ अद्यासि शौचन परेण युक्तो वाक्कायचेतांसि शुचौनि यत्ते । अतः पुनश्चाप्रयतामसौम्यां यत् सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥२४॥ अद्यार्य्यवृत्त श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्म्मम् । कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निवीर्य्य इवात्तशस्त्रः ॥२५॥ अहो धृतिस्ते विषयात्मकस्य यत्त्वं मतिं मोक्षविधावकार्षौः । यास्यामि निष्ठामिति बालिशो हि जन्मक्षयात् बासमिहान्युपैति॥२६॥ दिष्टया दुरापः क्षणसन्निपातो नायं कृतो मोहवशेन मोघः । उदेति दुःखेन गतोह्यधस्तात् कूर्भे युगच्छिद्र इवार्णवस्थः ॥२७॥ निर्ज्जित्य मारं युधि दुर्निवारमद्यासि स्तोके रणशा(स्व]शरः । शूरोऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः ॥२८॥ निर्व्वाय रागाग्निमुदौर्णमद्य दिष्टया सुखं स्वस्यसि वीतदाहः । दुःखं हि शेते भयनेऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः ॥२८॥ १ P. M. • शुम्भः । २P.M: has असोवियामे before verse 27. .