पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् कृस्नं कृतं मे कृतकार्य कार्य्यं लोके प्रभुतोऽस्मिन लोकधर्म्मा ॥१०॥ मैत्रीस्तनौं व्यञ्जनचारुसाम्नां सद्धर्मदग्धां प्रतिभाशृङ्गाम् । तवास्मि गां साधु निपीय तृप्ततृषेव गामुत्तमवत्सवर्णः ॥ ११ ॥ यत्पश्यतश्चाधिगमो भयायं तन्मे समामेन मुने निबोध । सर्वज्ञ कामं विदितं तवैतत् स्वन्तूपचारं प्रविवक्षुरम्मि ॥१२॥ अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयं परस्य । मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटन्ते ॥१३॥ द्रव्यादिकान् जन्मनि वेद्मि धान् नात्मानमुादिषु तेषु किश्चित् । यस्मादतस्तेषु न मेऽस्ति शक्ति र्बहिश्च कायेन समा मति र्में ॥१४॥ स्कन्धांश्च रूपप्रभृतीन् दशार्द्धान् पश्यामि यस्माञ्चपलानमारान् । अनात्मकांश्चैव वधात्मकांश्च तस्माद्विमुक्तोऽस्म्यशिवेभ्य एभ्यः ॥१५॥ यस्माच्च पश्याम्युदयञ्च सत्तां' सर्व्वास्ववस्यावहमिन्द्रियाणाम् । तस्मादनित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति सङ्गः ॥१६॥ यतश्च लोकं समजन्मनिष्ठं पश्यामि निःसारमसच्च सर्वम् । अतो धिया मे मनसा विबद्धमस्मीति मे नेञ्जितमस्ति येन ॥ १७॥ चतुर्विधे नैकविधप्रसङ्गे यतोऽहमाहारविधावसक्रः । अमूर्च्छितश्चाग्रथितश्च तत्र त्रिभ्यो विभुक्तोऽस्मि ततो भवेभ्यः ॥१८॥ अनिःश्रितश्चाप्रतिबद्धचित्तो दृष्टश्रुतादौ व्यवहारधर्मो । यस्मात् समात्मानुगतश्च तब तस्मादिसंयोगगतोऽस्मि मुक्तः ॥ १८ ॥ IP: LM, omits #AI P. M. *** T. २P.M. विचारम