पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः 119 अष्टादशः सर्गः अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः । जित्वा च राजन्य इवारिसैन्यं नन्दः कृतार्थो गुरुमभ्यगच्छत् ॥ १ ॥ द्रष्टुं मुखं ज्ञानसमाधि'काले गुरुर्हि शिष्यस्य गुरोश्च शिष्यः ! परिश्रमस्ते [स]फलो भवीति यतो दिदृक्षास्थ मुनौ बभूव ॥२॥ यतो हि येनाधिगतो विशेषस्तस्योत्तमां सोऽर्हति कर्तुमौद्याम् । आर्य्यः सरागोपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः ॥३॥ यस्थाथ कामप्रभवा हि भक्तिः स्वतोऽस्य सा तिष्ठति रूढमूला । धर्म्मान्वयो यस्य तु भक्तिरागस्तस्य प्रसादो हृदयावगाढः ॥ ४ ॥ काषायवासाः कनकावदातस्ततः स मूभी गुरवे प्रणेमे । वातेरितः पल्लवताम्ररागः पुष्योञ्चज्वलश्रीरिव कर्णिकारः ॥५॥ अथात्मनः शिष्यगुणम्य चैव महामुनेः शास्तृगुणस्य चैव । सन्दर्शनार्थं स न मानहेतोस्स्वां कार्य्यसिद्धिं कथयाम्बभूव ॥६॥ यो दृष्टिशल्यो हृदयावगाढः प्रभो भृशं मामतुदत्सुतीक्ष्णः । त्वदाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहतेव शल्यः ॥७॥ कथंकथौभावगतोऽस्मि येन छिन्नः स निःसंशय संशयो मे । त्वच्छासनात् सत्यपथमागतोऽस्मि सुदेशिकस्येव पथि प्रनष्टः ॥८॥ यत्पीतमास्वादवशेन्द्रियेण दर्पण कन्दर्पविषं मयासीत् । तन्मे हतं त्वदचनागदेन विषं विनाशीव महागदेन ॥८॥ क्षयं गतं जन्म निरस्तजन्म सद्धर्मत्तर्व्यामुषितोऽस्मि सम्यक् । १ P. M. समाप्त। २P. M. मुतस्य P. L. M. Hacuna T.