पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दर नन्दं काव्यम् येनाहं गिरिमुपनीय स्काट स्वर्गञ्च प्लवगवधूनिदर्शनेन । कामात्मा त्रिदिवत्ीरौभिरङ्गनाभि- र्निष्कृष्टो युवतिमये कलौ निमग्नः ॥७१॥ तस्माच्च व्यसनपरादनर्धपङ्काद् उत्कृय्य क्रमशिथिलः करीव पङ्कात् । शान्तेऽस्मिन् विरजसि विज्वरे विशोके सद्धर्म्मे वितमसि नैष्ठिके विमुक्तः ॥७२॥ तं वन्दे परमनुकंपकं महर्षिं मूहिं प्रकृतिगुणज्ञमाशयज्ञम् । संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनरपि चास्मि सन्नतस्तम् ॥७३ आर्य्याश्वघोषकृतौ महाकाव्ये सौन्दरनन्दे अमृताधिगमो नाम सप्तदशः सर्गः ! P. M. drops #1