पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः इति त्रिवेगं विाषं चिवीत्तमेकाम्भशं पञ्चरयं द्विकूलम् । द्विग्राहमष्टाङ्गवता शवेन दुःखार्णवं दुस्तरमुत्ततार ॥६० ॥ अर्हत्वमासाद्य स सत्क्रियार्हो निरुत्सुको निप्रणयो निराशः । विभौशिग्वीतमदो विरागः स एव धृत्यान्य इवाबभासे ॥६ १॥ भ्रातुश्च शास्तुश्च तयानुप्रिया नन्दस्ततः स्वेन च विक्रमेण । प्रशान्तचेताः परिपूर्णकाम्यो वाणीमिमामात्मगतां जगाद ॥६२॥ नमोऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणात्मकेन । बहूनि दुःखान्यपवर्त्तितानि सुखानि भूयांस्युपसंहृतानि ॥३॥ अहं ह्यनार्य्येण शरीरजेन दुःखात्मके वर्त्मनि कृय्यमाणः । निवर्त्तितस्तद्वचनाङ्कुशेन दर्पान्वितो नाग वाङ्कुशेन ॥६४॥ तस्याज्ञया कारुणिकस्य शास्तु: हृदिस्यमुत्पाच्य हि रागशल्यम् । अद्यैव तावत् सुमहत्सुखं में सर्वक्षये किं बत निर्वतस्य ॥६५॥ निर्वाप्य कामाग्निमहं हि दीप्तं धृत्यम्बुना पावकमम्बुनेव । ह्नादं परं साम्प्रतमागतोऽस्मि शीतं इदं धर्म इवावतीर्णः ॥६६॥ न मे प्रियं किञ्चन नाप्रियं मे न मेऽनुरोधोऽस्ति कुतो विरोधः । तयोरभावात्सुखितोऽस्मि सद्यो हिमातपाभ्यामिव विप्रमुक्तः ॥६॥ महाभयात् क्षेममिवोपलभ्य महावरोधादिव विप्रमोक्षम् । महार्णवात् पारमिवाप्लवः सन् भौमान्धकारादिव च प्रकाशम् ॥६८॥ रोगादिवारोग्यमसह्यरूपादृणादिवानृण्वमनन्तसंख्यात् । द्विषत्सकाशादिव चापधानं दुर्भिक्षयोगाच्च यथा सुभिक्षम् ॥६६॥ तद्वत् परां शान्तिमुपागतोऽहं यस्थानुभावेन विनायकस्य । करोमि भूयः पुनरुक्तमस्मै नमो नमोऽर्हाय तथागतांय ॥७॥