पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् प्रीते र्विरागात् सुखमायुंजुष्टं कायन विन्दन्नथ संप्रजानन् । उप्रेक्षकः स स्मृतिमान् व्यहार्षीत् ध्यानं हनीय प्रतिलभ्य धीरः ॥५.० १॥ यस्मात् परं तत्र सुखं सुखेभ्यस्ततः परं नास्ति सुखप्रवृत्तिः । तस्माद् बभाषे शुभकस्मभूमि परापरज्ञः परमेति मैया ॥५. १ ॥ ध्यानेऽपि तवाथ ददर्श दोषं मेने परं शान्तिमनिञ्जमेव । आभोगतोऽपोञ्जयति स्म तस्य चित्तं प्रवृतं सुखमित्यजस्रम् ॥५२॥ यवेञ्जितं स्पन्दितमस्ति तत्र यवास्ति च स्पन्दितमस्ति दुःखम् । यस्मादतस्तत्सुखमिञ्जकत्वात् प्रशान्तिकामा यतयन्त्यजन्ति ॥५३॥ अथ प्रहाणात् सुखदुःखयोश्च मनोविकारस्य च पूर्व्वमेव । दध्यापेक्षास्मृतिमद्विशद्धं ध्यानं तथाऽदुःखसुखं चतुर्थम् ॥५४॥ यस्मात्तु तस्मिन् न सुखं न दुःखं ज्ञानं च तत्रास्ति तदर्थचारि । तस्मादुपेक्षा स्मृतिपारिशुद्धि र्निरुच्यते ध्यानविधौ चतुर्थे ॥५५॥ ध्यानं स निश्रित्य ततश्चतुर्थमर्हत्वलाभाय मतिं चकार । सत्त्वाय मित्रं बलवन्तमार्य्यं राजेव देशानजितान् जिगीषुः ॥५६॥ चिच्छेद कायेन ततः स पञ्च प्रज्ञासिना भावनयेरितेन । ऊर्ध्वंगमान्युकामबन्धनानि संयोजनान्युक्तमबन्धनाभि ॥५॥ बोध्यङ्गनागैरपि सप्तभिः स सप्तैव चित्तानुपयान् ममर्द्द । द्वीपानिवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिरेव सप्त ॥५८॥ अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कबन्धवाव्यग्निदिवाकराणाम् । दोषेषु तां वृत्तिमियाय मन्दो निर्व्वापणोत्पाटनदाहशोषैः ॥५८॥ १ P. M. पारिशुद्ध।