पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः मूलान्यथ चौधभस्य वीरस्तिभिर्विमोक्षायतनैश्चकर्त्त । चमूमुखस्थान घृतकार्युकांस्वीनरीनिवारिस्त्रिभिरायसाग्रैः ॥ ४ ॥ स कामधातोः समतिक्रमाय पाणिग्रहांस्तानभिभूय शत्रून् । योगादनागामिफलं प्रपद्य द्वारोव निर्व्वाणपुरस्य तस्थौ ॥४१॥ कामैर्विविक्तं मलिनैश्च धर्म्मे वितर्कवच्चापि विचारवच्चं । विवेकज प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ॥४२॥ कामाग्निदेहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखादवाप । सुखं विगाह्याश्विव धर्म्मखिन्नः प्राप्येव चार्थं विपुलं दरिद्रः ॥४३॥ तवापि तद्धर्म्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् । बुद्धा मनःक्षोभकरानशान्तांस्तदिप्रयोगाय मतिञ्चकार ॥४४॥ क्षोभं प्रकुर्वन्ति यथोर्म्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः । एकाग्रभूतस्य तथोभिभूताचिन्ताम्भसः क्षोभकरा वितर्काः ॥४५॥ खिन्नस्य सुप्तस्य च निर्वृतस्य बाधां यथा संजनयन्ति शब्दाः । अध्यात्ममैकाग्र्यमुपागतस्य भवन्ति बाधाय तथा वितर्काः ॥४६॥ अथावितर्कं क्रमशोऽविचारमेकाग्रभावान्मनसः प्रसन्नम् । समाधिजं प्रीतिसुखं द्वितीयं ध्यानं तदाध्यात्म शिवं स दध्यौं ॥४७॥ तध्यानमागम्य च चित्तमौनं लेभे परां प्रीतिमलब्धपूर्व्वाम् । प्रीती तु तत्रापि स दोषदर्भो यथा वितर्कय्यभवत्तथैव ॥४८॥ प्रीति(ः] परा वस्तुनि यत्र यस्य विपर्य्ययात्तस्य हि तत्र दुःखम् । प्रीतेरता प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगमुपारूरोह ॥४६॥ १ P. M. statua: T.