पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ सौन्दरनन्दं काव्यम् कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतमवेक्षमाणः । ज्ञानाश्रयं प्रीतिमुपाजगाम भूयः प्रसादञ्च गुरारियाय ॥३०॥ यो हि प्रवृत्तिन्नियतामवैति नैवान्यहेतोरिह नाप्यहेतोः । प्रतीत्य तत्तत् समवैति तत्तत् स नैष्ठिकं पश्यति धर्म्ममार्य्यम् ॥ ३१॥ शान्तं शिवं निर्ज्जरसं विराम निःश्रेयसं पश्यति यश्च धर्म्म । तस्योपदेष्टारमधार्य्यवर्य्यं संप्रेक्षते बुद्धमवाप्नचक्षुः ॥३२॥ यथोपदेशेन शि(वे]न मुक्तो रोगादरोगो भिषजं कृतज्ञः । अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रे ज्ञतया च तुष्टः ॥३३॥ प्रायेण मार्गेण तथैव मुक्तस्तथागतं तत्त्वविदार्थतत्त्वः । अनुस्मरन् पश्यति कायसाक्षी मैत्रया च सर्वज्ञतया च तुष्टः ॥३४॥ स नाशकैर्दृष्टिगतेर्विमुक्तः पर्य्य(न्त) मालोक्य पुनर्भवस्य । वो घृणाक्लेशविजृम्भितेषोरमृत्यो र्न तवास न दुर्गतिभ्यः ॥३५॥ त्वक्पायुमेदोरुधिरास्थिमांसकेशा दिनाऽमेध्यगणेन पूर्णम् । ततः स कायं समवेक्षमाण: सारं विचिन्त्याण्वपि नोपलेभे ॥३६॥ स कामरागप्रतिधौ स्थिरात्मा तेनैव योगेन तनू चकार । कृत्वा महोरस्कतनुस्तनू तौ प्रापद्वितीयं फलमार्य्यधर्मो ॥३०॥ स लोभचापं परिकन्त्यवाणं रागं महावैरिणमल्यशेषम् । कायस्वभावाधिगतैर्बिभेद योगायुधास्वैरशुभापृशत्षकैः ॥३८॥ द्वेषायुधं क्रोधविकीर्णबाणं व्यापादमन्तःप्रसवं सपत्नम् । मैत्रीपृषत्कै र्धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतै र्जधान ॥३८॥ P. M. drops ato