पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः यतश्च संस्कारगतं विविक्तं न कारकः कश्चन वेदको वा । सामय्यतः सम्भवति प्रवृत्तिः शून्यं ततो लोकमिमं ददर्श ॥२०॥ यत्मानिरीहं जगदस्वतन्त्रं नेण्यय॑मेकः कुरुते क्रियासु ! तत्तत् प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् ॥११॥ ततः स वातं व्यजनादिवोष्णे काष्टाश्रितं निर्मर्थनादिवाग्निम् । अन्तःक्षितिथं खननादिवाभो लोकोत्तरं वनं दुरापमाय ॥२२॥ सज्ज्ञान-चाप-स्मृति-धर्म बद्धा विशुद्धशीलव्रतवाहनस्यः । क्लेशारिभिश्चित्तरणाजिरस्यैः सार्धं युयुत्सु र्विजयाय तस्थौ ॥२३॥ ततः स बोध्यङ्गभितात्तास्त्रः सम्यक्प्रधानोत्तमवाहनस्थः । मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचमूं जगाहे ॥२४॥ स मृत्युपस्थानमयः पृषत्कैः शत्रून् विपर्य्यासमयान् क्षणेन ! दुःखस्य हेतूश्चतुरश्चतुर्भिः स्वैः स्वै- प्रचारायतनै र्ददार ॥२५॥ आर्य्यैर्बलैः पञ्चभिरेव पञ्च चेतः खिलान्यप्रतिमै र्बभञ्ज । मिथ्याङ्गनागांश्च तथाङ्गनागैर्विनिर्दुधावाष्टभिरेव सोऽष्टौ ॥२६॥ अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येश्वकथंकथः सन् । विशुद्धशौलव्रतदृष्टधर्म्मा धर्म्मस्य पूर्व्वां फलभूमिमाप ॥२७॥ स दर्शनादार्य्यचतुष्टयस्य क्लैशकदेशस्य च विप्रयोगात् । प्रत्यात्मिकाच्चापि विशेषलाभात् प्रत्यक्षतो ज्ञानसुखस्य चैव ॥२८॥ दाढ्यात् प्रसादस्थ धृतेः स्थिरत्वात् सत्येश्वसंमूढतया चतर्षु । शीलस्य चाच्छिद्रतमोत्तमस्य निःसंशयो धर्म्मविधौ बभूव ॥२८॥ १P. M. एकं । 8