पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् स तद्विधाताय निमित्तमन्यद्योगानुकूलं कुशलं प्रपेदे । आर्त्तायनं क्षीणबलो बलस्यं निरस्यमानो बलिनारिणेव ॥१०॥ पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून विगृह्य । राजा यथाप्नोति हि गामपूर्व्वां नीति र्मुमुक्षोरपि सैव योगे ॥११॥ विमोक्षकामस्य हि योगिनोपि मनः पुरं ज्ञानविधिश्च दण्डः । गुणाश्च मित्राण्यरयश्च दोषा भूमिर्विमुक्ति र्यतते यदर्थम् ॥ १२॥ स दुःखजालान्महतो मुमुक्षुर्विमोक्षमार्गाधिगमे विविक्षुः । पन्थानमार्य्यं परमं दिदृक्षुः शमं ययौ किञ्चिदुपात्तचक्षुः ॥१३॥ यः स्यान्निकेतस्तमसोऽनिकेतः श्रुत्वापि तत्त्वं स भवेत्प्रमत्तः । यस्मात्तु मोक्षाय स पात्रभूतः तस्मान्मनः स्वात्मनि संजहार ॥१४॥ सम्भारतः प्रत्ययतः स्वभावादास्वादतो दोषविशेषतश्च । अथात्मवान् निःशरणात्मतश्च धर्म्मेषु चक्रे विधिवत् परीक्षाम् ॥१५॥ सरूपिणं कृत्स्नमरूपिणञ्च सारं दिवृक्षुर्विचिकाय कायम् । अथाशुचिं दुःखमनित्यमस्वं निरात्मकं चैव चिकाय कायम् ॥१६॥ अनित्यतस्तत्र हि शून्यतश्च निरात्मतो दुःखत एव चापि । मार्गप्रवेकेन स लौकिकेन क्लेशद्रुमं सञ्चलयाञ्चकार ॥१०॥ यस्मादभूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्यवश्यम् । सहेतुकञ्च क्षयिहेतुमच्च तस्मादनित्यं जगदित्यविन्दत् ॥१८॥ यतः प्रसूतस्य च कर्म्मयोगः प्रसज्यते बन्धविघातहेतुः । दुःखप्रतीकारविधौ सुखाख्यं ततो भवं दुःखमिति व्यपश्यत् ॥१८॥ १P. M. उपान्त। २P.M. तसात् ।