पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः 111 सप्तदशः सर्गः अथैवमादेशिततत्त्वमार्गों नन्दस्तदा प्राप्तविमोक्षमार्गः । सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥१॥ तत्रावकाशं मृदुनीलशष्यं ददर्श शान्तं तरुपण्डवन्तम् । निःशब्दया निम्नगयोपगूढं वैदूर्य्यनीलोदकया वहन्या ॥२॥ स पादयोस्तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले । मोक्षाय बद्ध्वा व्यवसायकक्षां पर्य्यङ्कमङ्कावहितं बबन्ध ॥३॥ राजन् समग्रं प्रणिधाय कायं काये स्मृतिं चाभिमुखौ विधाय । सर्वेन्द्रियाण्यात्मनि सन्निधाय स तत्र योगं प्रयतः प्रपेदे ॥४॥ ततः स तत्त्वं निखिलं चिकीर्षु र्मोक्षानुकूलांश्च विधौंश्चिकीर्षन् । ज्ञानेन लोक्येन शमेन चैव चचार चेतः परिकर्मभूमौ ॥५॥ संधाय धैर्य्यं प्रणिधाय वीर्य्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् । प्रशान्तचेता नियमस्थचेताः स्वस्थस्ततो (भू]द्विषयेष्वनास्थः ॥६॥ आतप्तबुद्धेः प्रहितात्मनोऽपि स्वभ्यस्तभावादथ कामसंज्ञा । पर्य्याकुलं तस्य मनश्चकार प्रावट्सु विद्युन्जलमागतेव ॥७॥ स पर्यवस्थानमवेत्य सद्यश्चिक्षेप तां धर्म्मविधात-कर्वीम् । प्रियामपि क्रोधपरौतचेता नारीमिवोवृत्तगुणां मनस्वी ॥८॥ आरब्धवीर्य्यस्य मनः शमाय भूयस्तु तस्थाकुशलो वितर्कः । व्याधिप्रणाशाय निविष्ट बुद्धेरुपद्रवो घोर इवाजगाम ॥६॥ १ P. M. तत्रावभावं। ३ P. M. धैर्य । २P. M. राज्य । 8. P. M. f7181