पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः १०७ शमाय तस्यैव विधिं विधत्ते व्यधत्त दोषेषु तथैव बुद्धः ॥६॥ एकेन कम्त्येन सा चेन्न हन्यात् स्वभ्यस्तभावादशुभान् वितर्कान् । ततो द्वितीयं क्रममारभेत नत्वेव हेयो गुणवान् प्रयोगः ॥७॥ अनादिकालोपचितात्मकत्वात् बलीयसः क्लेशगणस्य चैव । सम्यक्प्रयोगस्य च दुष्करत्वात् छेत्तुं न शक्याः सहसा हि दोषाः ॥७१ ॥ अपव्या यथाण्या विपुलाणिरन्या निर्वाह्यते तद्विदुषा नरेण । तद्वत् तदेवाकुशलं निमित्तं क्षिपेन् निमित्तान्तरसेवनेन ॥७२॥ तवाथवाध्यात्मनवग्रहत्वान्नैवोपशाम्येदशुभो वितर्कः । हेयः स तद्दोषयरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ॥७३॥ यथा क्षुधार्तॊपि विषेण पृक्तं जिजीविषुर्नेच्छति भोक्तुमन्नम् । तथैव दोषावहमित्यवेत्य जहाति विद्वानषुभं निमित्तम् ॥७४॥ न दोषतः पश्यति यो हि दोषं कस्तं ततो वारयितुं समर्थः । गुणं गुणे पश्यति यश्च यत्र स वार्य्यमाणोपि ततः प्रयाति ॥७॥ व्यपत्रपन्ते हि कुलप्रसूता मनःप्रचारैरशुभैः प्रवृत्तैः । कण्वे मनस्वांश्च युवा वपुद्मान् न चाक्षुषैरप्रयुतै र्विषक्तैः ॥७६ ॥ निर्धूयमाणास्वथ लोषतोपि तिष्ठेयुरेवाकुशला वितर्काः । कार्यान्तरैरध्ययनक्रियाद्यैः सेव्यो विधिर्विस्मरणाय तेषाम् ॥७७॥ स्वप्तव्यमप्येव विच(क्ष)णेन कायल्लमो वापि निषेवितव्यः । नत्वेव सञ्चिन्त्यमसन्निमित्तं यत्रावसक्तस्य भवेदनर्थः ॥७८॥ यथा हि भौतो निशि तस्करेभ्यो द्वार(ं"] प्रियेभ्योऽपि न दातुमिच्छेत् । प्राज्ञस्तथा संहरति प्रयोग समं शुभस्याप्यशुभस्य दोषैः ॥१८॥ P. L. M. drops 17HRI